नमस्कार भक्तों इस लेख में हम आपको गणेश पूजा मंत्र के बारे में जानकारी प्रदान करने वाले हैं इस लेख में आपको Ganesh Puja Mantra को हिंदी में समझाया जाएगा यह मंत्र भगवान गणेश का एक चमत्कारी मंत्र है जिसका जाप करने से भगवान गणेश की कृपा प्राप्त होती है और आपको अपने जीवन में सफलता प्राप्त होती है
Ganesh Puja Mantra- गणेश पूजा मंत्र इन संस्कृत
॥ वक्रतुंड महाकाय सूर्यकोटि समप्रभ ,
निर्विघ्नं कुरुमे देव सर्वकार्येषु सर्वदा ॥
॥ एकदंताय विद्महे , वक्रतुंडाय धीमहि ,
तन्नो दंती प्रचोदयात ॥
॥ महाकर्णाय विद्महे , वक्रतुण्डाय धीमहि ,
तन्नो दंती प्रचोदयात् ॥
॥ गजाननाय विद्महे , वक्रतुण्डाय धीमहि ,
तन्नो दंती प्रचोदयात् ॥
॥ एकदंताय शुद्धाय सुमुखाय नमो नमः ,
प्रपन्न जनपालाय प्रणतार्ति विनाशिने ॥
॥ गं गणपतये सर्व कार्य सिद्धि कुरु कुरु स्वाहा ॥
॥ विघ्नेश्वराय वरदाय सुरप्रियाय , लंबोदराय सकलाय जगद्धितायं ॥
नागाननाथ श्रुतियज्ञविभूषिताय , गौरीसुताय गणनाथ नमो नमस्ते ॥
॥ अमेयाय च हेरंब परशुधारकाय ते , मूषक वाहनायैव विश्वेशाय नमो नमः ॥
द्वविमौ ग्रसते भूमिः सर्पो बिलशयानिवं। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्॥
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धितायं। नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते॥
केयूरिणं हारकिरीटजुष्टं चतुर्भुजं पाशवराभयानिं। सृणिं वहन्तं गणपं त्रिनेत्रं सचामरस्त्रीयुगलेन युक्तम्॥
गजाननाय महसे प्रत्यूहतिमिरच्छिदे । अपारकरुणापूरतरङ्गितदृशे नमः ॥
आवाहये तं गणराजदेवं रक्तोत्पलाभासमशेषवन्द्दम् । विध्नान्तकं विध्नहरं गणेशं भजामि रौद्रं सहितं च सिद्धया ॥
आवाहये तं गणराजदेवं रक्तोत्पलाभासमशेषवन्द्दम् । विध्नान्तकं विध्नहरं गणेशं भजामि रौद्रं सहितं च सिद्धया ॥
परात्परं चिदानन्दं निर्विकारं हृदि स्थितम् । गुणातीतं गुणमयं मयूरेशं नमाम्यहम्
प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुगमम् उद्दण्डविघ्नपरिखण्डनचण्डदण्ड माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥
तमोयोगिनं रुद्ररूपं त्रिनेत्रं जगद्धारकं तारकं ज्ञानहेतुम् । अनेकागमैः स्वं जनं बोधयन्तं सदा सर्वरूपं गणेशं नमामः ॥
सृजन्तं पालयन्तं च संहरन्तं निजेच्छया । सर्वविध्नहरं देवं मयूरेशं नमाम्यहम् ॥
तमः स्तोमहारनं जनाज्ञानहारं त्रयीवेदसारं परब्रह्मसारम् । मुनिज्ञानकारं विदूरेविकारं सदा ब्रह्मरुपं गणेशं नमामः ॥
सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् । सर्वविद्याप्रवक्तारं मयूरेशं नमाम्यहम् ॥
सर्वाज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् । सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम् ॥
पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् । भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम् ॥
अनेककोटिब्रह्याण्डनायकं जगदीश्वरम् । अनन्तविभवं विष्णु मयूरेशं नमाम्यहम्
गजाननाय पूर्णाय साङ्ख्यरूपमयाय ते । विदेहेन च सर्वत्र संस्थिताय नमो नमः ॥
पार्वतीनन्दनायैव देवानां पालकाय ते । सर्वेषां पूज्यदेहाय गणेशाय नमो नमः ॥
अमेयाय च हेरम्ब परशुधारकाय ते । मूषक वाहनायैव विश्वेशाय नमो नमः ॥
स्वनन्दवासिने तुभ्यं शिवस्य कुलदैवत । विष्णवादीनां विशेषेण कुलदेवताय ते नमः ॥
अनन्तविभायैव परेषां पररुपिणे । शिवपुत्राय देवाय गुहाग्रजाय ते नमः ॥
योगाकाराय सर्वेषां योगशान्तिप्रदाय च । ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते ॥
ऊँ नमो विघ्नराजाय सर्वसौख्यप्रदायिने । दुष्टारिष्टविनाशाय पराय परमात्मने ॥
सिद्धिबुद्धि पते नाथ सिद्धिबुद्धिप्रदायिने । मायिन मायिकेभ्यश्च मोहदाय नमो नमः ॥
लम्बोदराय वै तुभ्यं सर्वोदरगताय च । अमायिने च मायाया आधाराय नमो नमः ॥
त्रिलोकेश गुणातीत गुणक्षोम नमो नमः त्रैलोक्यपालन विभो विश्वव्यापिन् नमो नमः ॥
मायातीताय भक्तानां कामपूराय ते नमः । सोमसूर्याग्निनेत्राय नमो विश्वम्भराय ते ॥
जय विघ्नकृतामाद्या भक्तनिर्विघ्नकारक । अविघ्न विघ्नशमन महाविध्नैकविघ्नकृत् ॥
नमस्ते गणनाथाय गणानां पतये नमः । भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥
मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः । अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥
लम्बोदरं महावीर्यं नागयज्ञोपशोभितम् । अर्धचन्द्रधरं देवं विघ्नव्यूहविनाशनम् ॥
गुरुदराय गुरवे गोप्त्रे गुह्यासिताय । गोप्याय गोपिताशेषभुवनाय चिदात्मने ॥
विश्वमूलाय भव्याय विश्वसृष्टिकराय ते । नमो नमस्ते सत्याय सत्यपूर्णाय शुणिडने ॥
वेदान्तवेद्यं जगतामधीशं देवादिवन्द्यं सुकृतैकगम्यम् । स्तम्बेरमास्यं नवचन्द्रचूडं विनायकं तं शरणं प्रपद्ये ॥
नमामि देवं द्धिरदाननं तं यः सर्वविघ्नं हरते जनानाम् । धर्मार्थकामांस्तनुतेऽखिलानां तस्मै नमो विघ्नविनाशनाय ॥
द्धिरदवदन विषमरद वरद जयेशान शान्तवरसदन । सदनवसादन सादनमन्तरायस्य रायस्य ॥
सर्वविघ्नहरं देवं सर्वविघ्नविवर्जितमम् सर्वसिद्धिप्रदातारं वन्देऽहं गणनायकम् ॥
विश्वमूलाय भव्याय विश्वसृष्टिकराय ते । नमो नमस्ते सत्याय सत्यपूर्णाय शुण्डिने ॥
एकदन्ताय शुद्घाय सुमुखाय नमो नमः । प्रपन्न जनपालाय प्रणतार्ति विनाशिने ॥
शिव पार्वती मंत्र